दशावतारस्तोत्रम्
[ad_1] देवो नश्शुभमातनोतुदशधा निर्वर्तयन्भूमिकां रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः । यद्भावेषु पृथग्विधेष्वनुगुणान्भावान् स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥१॥ निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैरीक्षणै- रन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् । निष्प्रत्यूहतरङ्गरिङ्गणमिथःप्रत्यूढपाथच्छटा- डोलारोहसदोहलं भगवतो मात्स्यं वपुः पातु नः ॥२॥ अव्यासुर्भुवनत्रयीमनिभृतं कण्डूय़नैरद्रिणा निद्राणस्य परस्य कूर्मवपुषो निःश्वासवातोर्मयः यद्विक्षेपणसंस्कृतोदधिपयःप्रेङ्खोलपर्यङ्किका- नित्यारोहणनिर्वृतो विहरते देवः सहैव श्रिया ॥३॥ गोपायेदनिशं जगन्ति कुहनापोत्री पवित्रीकृत- ब्रह्माण्डः प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरैः । यद्दंष्ट्राङ्कुरकोटिगाढघटनानिष्कंपनित्यस्थितिः ब्रह्मस्तंबमसौदसौ भगवती…
